Monday, September 10, 2018



मनु स्मृति प्रथम अध्याय 



1          भूमिका


1.        मनुमेकाग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन्  ॥ १.१ ॥

2.        भगवन् सर्ववर्णानां यथावदनुपूर्वशः  । अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि  ॥ १.२ ॥

3.        त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः  । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो  ॥ १.३ ॥

4.        स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः  । प्रत्युवाचार्च्य तान् सर्वान्महर्षीञ्श्रूयतामिति  ॥ १.४ ॥



2 ब्रह्माण्ड निर्माण
5.        आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्  । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः  ॥ १.५ ॥

6.        ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम्  । महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः  ॥ १.६ ॥

7.        योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः  । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ  ॥ १.७ ॥

8.        सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः  । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ १.८ ॥

9.        तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्  । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा  ॥ १.१२ ॥

10.   ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे  । मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतं  ॥ १.१३ ॥



3 विधि की रचना


11.   अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम्  । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम्  ॥ १.२३ ॥



4 तत्त्वों की रचना


12.   उद्बबर्हात्मनश्चैव मनः सदसदात्मकम्  । मनसश्चाप्यहंकारमभिमन्तारमीश्वरम्  ॥ १.१४ ॥

13.   महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च  । विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च  ॥ १.१५ ॥

14.   तदाविशन्ति भूतानि महान्ति सह कर्मभिः  । मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम्  ॥ १.१८ ॥

15.   आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः  । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः  ॥ १.२० ॥

16.   तपो वाचं रतिं चैव कामं च क्रोधमेव च  । सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः  ॥ १.२५ ॥

17.   मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया  । आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः  ॥ १.७५ ॥

18.   आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः  । बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः  ॥ १.७६ ॥

19.   वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम्  । ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते  ॥ १.७७ ॥

20.   ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः  । अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः  ॥ १.७८ ॥



5 प्राणियों की रचना


21.   तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम्  । संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे  ॥ १.१६ ॥

22.   तेषामिदं तु सप्तानां पुरुषाणां महौजसाम्  । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्  ॥ १.१९ ॥

23.   यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः  ॥ १.१७ ॥

24.   द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः  ॥ १.३२ ॥

25.   अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः  । ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः  ॥ १.२७ ॥

26.   पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः  । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः  ॥ १.४३ ॥

27.   अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः  । यानि चैवम्: प्रकाराणि स्थलजान्यौदकानि च  ॥ १.४४ ॥

28.   स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम्  । ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम्  ॥ १.४५ ॥

29.   उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः  । ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः  ॥ १.४६ ॥

30.   अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः  । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः  ॥ १.४७ ॥

31.   गुच्छगुल्मं तु विविधं तथैव तृणजातयः  । बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च  ॥ १.४८ ॥

32.   तमसा बहुरूपेण वेष्टिताः कर्महेतुना  । अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः  ॥ १.४९ ॥



6 समय आदि की रचना
33.   कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा  । सरितः सागराञ्शैलान् समानि विषमानि च  ॥ १.२४ ॥

34.   स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे  । सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः  ॥ १.६१ ॥

35.   स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा  । चाक्षुषश्च महातेजा विवस्वत्सुत एव च  ॥ १.६२ ॥

36.   स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः  । स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम्  ॥ १.६३ ॥

37.   निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला  । त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः  ॥ १.६४ ॥

38.   अहोरात्रे विभजते सूर्यो मानुषदैविके  । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः  ॥ १.६५ ॥

39.   पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः  । कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी  ॥ १.६६ ॥

40.   दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः  । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्  ॥ १.६७ ॥

41.   ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः  । एकैकशो युगानां तु क्रमशस्तन्निबोधत  ॥ १.६८ ॥

42.   चत्वार्याहुः सहस्राणि वर्साणां तत्कृतं युगम्  । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः  ॥ १.६९ ॥

43.   इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु  । एकापायेन वर्तन्ते सहस्राणि शतानि च   ॥ १.७० ॥

44.   यदेतत्परिसंख्यातमादावेव चतुर्युगम्  । एतद्द्वादशसाहस्रं देवानां युगमुच्यते  ॥ १.७१ ॥

45.   दैविकानां युगानां तु सहस्रं परिसंख्यया  । ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च  ॥ १.७२ ॥

46.   तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः  । रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः  ॥ १.७३ ॥

47.   तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते  । प्रतिबुद्धश्च सृजति मनः सदसदात्मकम्  ॥ १.७४ ॥

48.   यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम्  । तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते  ॥ १.७९ ॥



7 कर्मो की रचना
49.   कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः  ॥ १.२६ ॥

50.   हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते  । यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ १.२९ ॥

51.   सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे  ॥ १.२१ ॥

52.   अध्यापनमध्ययनं यजनं याजनं तथा  । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ १.८८ ॥

53.   प्रजानां रक्षणं दानमिज्याध्ययनमेव च  । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः  ॥ १.८९ ॥

54.   पशूनां रक्षणं दानमिज्याध्ययनमेव च  । वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च  ॥ १.९० ॥

55.   भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः  । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः  ॥ १.९६ ॥



8 प्रलय काल
56.   यदा स देवो जागर्ति तदेवं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति  ॥ १.५२ ॥

57.   युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि  । तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः  ॥ १.५४ ॥

58.   तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः  । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः  ॥ १.५५ ॥

59.   यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च  । समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति  ॥ १.५६ ॥

60.   मन्वन्तराण्यसंख्यानि सर्गः संहार एव च  । क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः  ॥ १.८० ॥



9 शास्त्र में वर्णित विषय
61.   अस्मिन् धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम्  । चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः  ॥ १.१०७ ॥

62.   जगतश्च समुत्पत्तिं संस्कारविधिमेव च   । व्रतचर्योपचारं च स्नानस्य च परं विधिम्  ॥ १.१११ ॥

63.   दाराधिगमनं चैव विवाहानां च लक्षणम्  । महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम्  ॥ १.११२ ॥

64.   वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च  । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च  ॥ १.११३ ॥

65.   स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च  । राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम्  ॥ १.११४ ॥

66.   साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि  । विभागधर्मं द्यूतं च कण्टकानां च शोधनम्  ॥ १.११५ ॥

67.   वैश्यशूद्रोपचारं च संकीर्णानां च संभवम्  । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा  ॥ १.११६ ॥

68.   संसारगमनं चैव त्रिविधं कर्मसंभवम्  । निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम्  ॥ १.११७ ॥

69.   देशधर्माञ्जातिधर्मान् कुलधर्मांश्च शाश्वतान्  । पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः  ॥ १.११८ ॥

70.   इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम्  । इदं यशस्यमायुष्यमिदं निःश्रेयसं परम्  ॥ १.१०६ ॥

No comments:

Post a Comment