CHAPTER 12
THE FRUITS OF DEEDS
1. चातुर्वर्ण्यस्य
कृत्स्नोऽयमुक्तो धर्मस्त्वयानघः ।
कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम्
॥ १२.१ ॥
2. शुभाशुभफलं
कर्म मनोवाग्देहसंभवम् । कर्मजा गतयो
नॄणामुत्तमाधममध्यमः ॥ १२.३ ॥
3. तस्येह
त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् ॥
१२.४ ॥
4. परद्रव्येष्वभिध्यानं
मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च
त्रिविधं कर्म मानसम् ॥ १२.५ ॥
5. पारुष्यमनृतं
चैव पैशुन्यं चापि सर्वशः ।
असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्
॥ १२.६ ॥
6. अदत्तानामुपादानं
हिंसा चैवाविधानतः । परदारोपसेवा च शारीरं
त्रिविधं स्मृतम् ॥ १२.७ ॥
7. मानसं
मनसैवायमुपभुङ्क्ते शुभाशुभम् । वाचा वाचा
कृतं कर्म कायेनैव च कायिकम् ॥ १२.८ ॥
8. वाग्दण्डोऽथ
मनोदण्डः कायदण्डस्तथैव च । यस्यैते
निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥
१२.१० ॥
9. त्रिदण्डमेतन्निक्षिप्य
सर्वभूतेषु मानवः । कामक्रोधौ तु संयम्य
ततः सिद्धिं नियच्छति ॥ १२.११ ॥
THE INNER
10. योऽस्यात्मनः
कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः
करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥
१२.१२ ॥
11. जीवसंज्ञोऽन्तरात्मान्यः
सहजः सर्वदेहिनाम् । येन वेदयते सर्वं
सुखं दुःखं च जन्मसु ॥ १२.१३ ॥
12. तावुभौ
भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च ।
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः
॥ १२.१४ ॥
13. असंख्या
मूर्तयस्तस्य निष्पतन्ति शरीरतः ।
उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥
१२.१५ ॥
14. पञ्चभ्य एव
मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् ।
शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥
१२.१६ ॥
15. सोऽनुभूयासुखोदर्कान्
दोषान् विषयसङ्गजान् । व्यपेतकल्मषोऽभ्येति
तावेवोभौ महौजसौ ॥ १२.१८ ॥
16. तौ धर्मं
पश्यतस्तस्य पापं चातन्द्रितौ सह ।
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् ॥ १२.१९ ॥
17. एता
दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा ।
धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः ॥
१२.२३ ॥
THREE ATTRIBUTES
18. सत्त्वं
रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान्
। यैर्व्याप्येमान् स्थितो भावान्महान् सर्वानशेषतः ॥ १२.२४ ॥
19. यो यदैषां
गुणो देहे साकल्येनातिरिच्यते । स तदा
तद्गुणप्रायं तं करोति शरीरिणम् ॥ १२.२५ ॥
20. सत्त्वं
ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्
। एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥ १२.२६ ॥
21. तत्र
यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् । प्रशान्तमिव शुद्धाभं सत्त्वं
तदुपधारयेत् ॥ १२.२७ ॥
22. यत्तु
दुःखसमायुक्तमप्रीतिकरमात्मनः । तद्रजो
प्रतीपं विद्यात्सततं हारि देहिनाम् ॥
१२.२८ ॥
23. यत्तु
स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १२.२९ ॥
24. वेदाभ्यासस्तपो
ज्ञानं शौचमिन्द्रियनिग्रहः ।
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम्
॥ १२.३१ ॥
25. आरम्भरुचिताधैर्यमसत्कार्यपरिग्रहः । विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ १२.३२ ॥
26. लोभः
स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता
। याचिष्णुता प्रमादश्च तामसं गुणलक्षणम्
॥ १२.३३ ॥
27. यत्कर्म
कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति ।
तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम्
॥ १२.३५ ॥
28. येनास्मिन्
कर्मना लोके ख्यातिमिच्छति पुष्कलाम् । न
च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम् ॥
१२.३६ ॥
29. यत्सर्वेणेच्छति
ज्ञातुं यन्न लज्जति चाचरन् । येन तुष्यति
चात्मास्य तत्सत्त्वगुणलक्षणम् ॥ १२.३७ ॥
30. तमसो लक्षणं
कामो रजसस्त्वर्थ उच्यते । सत्त्वस्य
लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥
१२.३८ ॥
31. देवत्वं
सात्त्विका यान्ति मनुष्यत्वं च राजसाः ।
तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः
॥ १२.४० ॥
32. त्रिविधा
त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥
१२.४१ ॥
33. यज्वान ऋषयो
देवा वेदा ज्योतींषि वत्सराः । पितरश्चैव
साध्याश्च द्वितीया सात्त्विकी गतिः ॥
१२.४९ ॥
34. इन्द्रियाणां
प्रसङ्गेन धर्मस्यासेवनेन च । पापान्
संयान्ति संसारानविद्वांसो नराधमाः ॥
१२.५२ ॥
SIN & REBIRTH
35. यद्वा तद्वा
परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति
तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥
१२.६८ ॥
36. यथा यथा
निषेवन्ते विषयान् विषयात्मकाः । तथा तथा
कुशलता तेषां तेषूपजायते ॥ १२.७३ ॥
37. यादृशेन तु
भावेन यद्यत्कर्म निषेवते । तादृशेन
शरीरेण तत्तत्फलमुपाश्नुते ॥ १२.८१ ॥
38. वेदाभ्यासस्तपो
ज्ञानमिन्द्रियाणां च संयमः । अहिंसा
गुरुसेवा च निःश्रेयसकरं परम् ॥ १२.८३ ॥
39. सर्वेषामपि
चैतेषां शुभानामिह कर्मणाम् । किं
चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति
॥ १२.८४ ॥
40. षण्णामेषां
तु सर्वेषां कर्मणां प्रेत्य चेह च ।
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम्
॥ १२.८६ ॥
41. वैदिके
कर्मयोगे तु सर्वाण्येतान्यशेषतः ।
अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन् क्रियाविधौ
॥ १२.८७ ॥
42. सुखाभ्युदयिकं
चैव नैःश्रेयसिकमेव च । प्रवृत्तं च
निवृत्तं च द्विविधं कर्म वैदिकम् ॥ १२.८८
॥
43. इह चामुत्र
वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते
॥ १२.८९ ॥
44. प्रवृत्तं
कर्म संसेव्यं देवानामेति साम्यताम् ।
निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै
॥ १२.९० ॥
45. सर्वभूतेषु
चात्मानं सर्वभूतानि चात्मनि । समं
पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥
१२.९१ ॥
46. यथोक्तान्यपि
कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने
शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥
१२.९२ ॥
47. पितृदेवमनुष्याणां
वेदश्चक्षुः सनातनम् । अशक्यं चाप्रमेयं च
वेदशास्त्रमिति स्थितिः ॥ १२.९४ ॥
48. या
वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः
। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ १२.९५ ॥
49. उत्पद्यन्ते
च्यवन्ते च यान्यतोऽन्यानि कानि चित् । तान्यर्वाक्कालिकतया निष्फलान्यनृतानि
च ॥ १२.९६ ॥
50. शब्दः
स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ॥
१२.९८ ॥
51. बिभर्ति
सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्
॥ १२.९९ ॥
52. सेनापत्यं च
राज्यं च दण्डनेतृत्वमेव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥
१२.१०० ॥
53. यथा जातबलो
वह्निर्दहत्यार्द्रानपि द्रुमान् । तथा
दहति वेदज्ञः कर्मजं दोषमात्मनः ॥ १२.१०१
॥
54. वेदशास्त्रार्थतत्त्वज्ञो
यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन्
स ब्रह्मभूयाय कल्पते ॥ १२.१०२ ॥
55. अज्ञेभ्यो
ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः
। धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १२.१०३ ॥
56. तपो विद्या च
विप्रस्य निःश्रेयसकरं परम् । तपसा
किल्बिषं हन्ति विद्ययामृतमश्नुते ॥
१२.१०४ ॥
DOUBTS IN LAW
57. प्रत्यक्षं
चानुमानं च शास्त्रं च विविधागमम् । त्रयं
सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥
१२.१०५ ॥
58. आर्षं
धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥
१२.१०६ ॥
59. अनाम्नातेषु
धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः
स्यादशङ्कितः ॥ १२.१०८ ॥
60. धर्मेणाधिगतो
यैस्तु वेदः सपरिबृंहणः । ते शिष्टा
ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥
१२.१०९ ॥
61. दशावरा वा
परिषद्यं धर्मं परिकल्पयेत् । त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥
१२.११० ॥
62. त्रैविद्यो
हेतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा
॥ १२.१११ ॥
63. ऋग्वेदविद्यजुर्विच्च
सामवेदविदेव च । त्र्यवरा परिषज्ज्ञेया
धर्मसंशयनिर्णये ॥ १२.११२ ॥
64. एकोऽपि
वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः ।
स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः
॥ १२.११३ ॥
65. अव्रतानाममन्त्राणां
जातिमात्रोपजीविनाम् । सहस्रशः समेतानां
परिषत्त्वं न विद्यते ॥ १२.११४ ॥
66. यं वदन्ति
तमोभूता मूर्खा धर्ममतद्विदः। तत्पापं
शतधा भूत्वा तद्वक्तॄननुगच्छति॥ १२.११५ ॥
67. एतद्वोऽभिहितं
सर्वं निःश्रेयसकरं परम् ।
अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम्
॥ १२.११६ ॥
68. सर्वमात्मनि
संपश्येत्सच्चासच्च समाहितः । सर्वं
ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः ॥
१२.११८ ॥
69. आत्मैव
देवताः सर्वाः सर्वमात्मन्यवस्थितम् ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥
१२.११९ ॥
70. खं
संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ १२.१२० ॥
71. प्रशासितारं
सर्वेषामणीयांसमणोरपि । रुक्माभं
स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥
१२.१२२ ॥
72. एष सर्वाणि
भूतानि पञ्चभिर्व्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥
73. एवं यः
सर्वभूतेषु पश्यत्यात्मानमात्मना । स
सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥
१२.१२५ ॥
74. इत्येतन्मानवं
शास्त्रं भृगुप्रोक्तं पठन् द्विजः ।
भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम्
॥ १२.१२६ ॥
No comments:
Post a Comment