Monday, September 10, 2018


CHAPTER 12

THE FRUITS OF DEEDS
1.         चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयानघः  । कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम्  ॥ १२.१ ॥
2.         शुभाशुभफलं कर्म मनोवाग्देहसंभवम्  । कर्मजा गतयो नॄणामुत्तमाधममध्यमः  ॥ १२.३ ॥
3.         तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः  । दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम्  ॥ १२.४ ॥
4.         परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्  । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्  ॥ १२.५ ॥
5.         पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः  । असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्  ॥ १२.६ ॥
6.         अदत्तानामुपादानं हिंसा चैवाविधानतः  । परदारोपसेवा च शारीरं त्रिविधं स्मृतम्  ॥ १२.७ ॥
7.         मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम्  । वाचा वाचा कृतं कर्म कायेनैव च कायिकम्  ॥ १२.८ ॥
8.         वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च  । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते  ॥ १२.१० ॥
9.         त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः  । कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति  ॥ १२.११ ॥
THE INNER
10.       योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते  । यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः  ॥ १२.१२ ॥
11.       जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम्  । येन वेदयते सर्वं सुखं दुःखं च जन्मसु  ॥ १२.१३ ॥
12.       तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च  । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः  ॥ १२.१४ ॥
13.       असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः  । उच्चावचानि भूतानि सततं चेष्टयन्ति याः  ॥ १२.१५ ॥
14.       पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम्  । शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम्  ॥ १२.१६ ॥
15.       सोऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान्  । व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ  ॥ १२.१८ ॥
16.       तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह  । याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम्  ॥ १२.१९ ॥
17.       एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा  । धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः  ॥ १२.२३ ॥
THREE ATTRIBUTES
18.       सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान्  । यैर्व्याप्येमान् स्थितो भावान्महान् सर्वानशेषतः  ॥ १२.२४ ॥
19.       यो यदैषां गुणो देहे साकल्येनातिरिच्यते  । स तदा तद्गुणप्रायं तं करोति शरीरिणम्  ॥ १२.२५ ॥
20.       सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्  । एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः  ॥ १२.२६ ॥
21.       तत्र यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् । प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ १२.२७ ॥
22.       यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः  । तद्रजो प्रतीपं विद्यात्सततं हारि देहिनाम्  ॥ १२.२८ ॥
23.       यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम्  । अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १२.२९ ॥
24.       वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः  । धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम्  ॥ १२.३१ ॥
25.       आरम्भरुचिताधैर्यमसत्कार्यपरिग्रहः  । विषयोपसेवा चाजस्रं राजसं गुणलक्षणम्  ॥ १२.३२ ॥
26.       लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता  । याचिष्णुता प्रमादश्च तामसं गुणलक्षणम्  ॥ १२.३३ ॥
27.       यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति  । तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम्  ॥ १२.३५ ॥
28.       येनास्मिन् कर्मना लोके ख्यातिमिच्छति पुष्कलाम्  । न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम्  ॥ १२.३६ ॥
29.       यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन्  । येन तुष्यति चात्मास्य तत्सत्त्वगुणलक्षणम्  ॥ १२.३७ ॥
30.       तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते  । सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम्  ॥ १२.३८ ॥
31.       देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः  । तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः  ॥ १२.४० ॥
32.       त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः  । अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः  ॥ १२.४१ ॥
33.       यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः  । पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः  ॥ १२.४९ ॥
34.       इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च  । पापान् संयान्ति संसारानविद्वांसो नराधमाः  ॥ १२.५२ ॥
SIN & REBIRTH
35.       यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः  । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः  ॥ १२.६८ ॥
36.       यथा यथा निषेवन्ते विषयान् विषयात्मकाः  । तथा तथा कुशलता तेषां तेषूपजायते  ॥ १२.७३ ॥
37.       यादृशेन तु भावेन यद्यत्कर्म निषेवते  । तादृशेन शरीरेण तत्तत्फलमुपाश्नुते  ॥ १२.८१ ॥
38.       वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः  । अहिंसा गुरुसेवा च निःश्रेयसकरं परम्  ॥ १२.८३ ॥
39.       सर्वेषामपि चैतेषां शुभानामिह कर्मणाम्  । किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति  ॥ १२.८४ ॥
40.       षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चेह च  । श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम्  ॥ १२.८६ ॥
41.       वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः  । अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन् क्रियाविधौ  ॥ १२.८७ ॥
42.       सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च  । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्  ॥ १२.८८ ॥
43.       इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते  । निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते  ॥ १२.८९ ॥
44.       प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम्  । निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै  ॥ १२.९० ॥
45.       सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि  । समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति  ॥ १२.९१ ॥
46.       यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः  । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्  ॥ १२.९२ ॥
47.       पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम्  । अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः  ॥ १२.९४ ॥
48.       या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः  । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः  ॥ १२.९५ ॥
49.       उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् । तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च  ॥ १२.९६ ॥
50.       शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः  । वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः  ॥ १२.९८ ॥
51.       बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम्  । तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्  ॥ १२.९९ ॥
52.       सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च  । सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति  ॥ १२.१०० ॥
53.       यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान्  । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः  ॥ १२.१०१ ॥
54.       वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन्  । इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते  ॥ १२.१०२ ॥
55.       अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः  । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः  ॥ १२.१०३ ॥
56.       तपो विद्या च विप्रस्य निःश्रेयसकरं परम्  । तपसा किल्बिषं हन्ति विद्ययामृतमश्नुते  ॥ १२.१०४ ॥
DOUBTS IN LAW
57.       प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम्  । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता  ॥ १२.१०५ ॥
58.       आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना  । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः  ॥ १२.१०६ ॥
59.       अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः  ॥ १२.१०८ ॥
60.       धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः  । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः  ॥ १२.१०९ ॥
61.       दशावरा वा परिषद्यं धर्मं परिकल्पयेत् । त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११० ॥
62.       त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः  । त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा  ॥ १२.१११ ॥
63.       ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च  । त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये  ॥ १२.११२ ॥
64.       एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः  । स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः  ॥ १२.११३ ॥
65.       अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्  । सहस्रशः समेतानां परिषत्त्वं न विद्यते  ॥ १२.११४ ॥
66.       यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः।  तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति॥ १२.११५ ॥
67.       एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम्  । अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम्  ॥ १२.११६ ॥
68.       सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः  । सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः  ॥ १२.११८ ॥
69.       आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम्  । आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्  ॥ १२.११९ ॥
70.       खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम्  । पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु  ॥ १२.१२० ॥
71.       प्रशासितारं सर्वेषामणीयांसमणोरपि  । रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम्  ॥ १२.१२२ ॥
72.       एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः  । जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥
73.       एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना  । स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम्  ॥ १२.१२५ ॥
74.       इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः  । भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम्  ॥ १२.१२६ ॥

No comments:

Post a Comment