Monday, September 10, 2018




CHAPTER 11

Giving and Receiving of Donation
1.        सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम्  । गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः  ॥ ११.१ ॥

2.        न वै तान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान्  । निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः  ॥ ११.२ ॥

3.        एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम्  । इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते  ॥ ११.३ ॥

4.        सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम्  ॥ ११.४ ॥

5.        कृतदारोऽपरान् दारान् भिक्षित्वा योऽधिगच्छति  । रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः  ॥ ११.५ ॥

6.        यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये  । अधिकं वापि विद्येत स सोमं पातुमर्हति  ॥ ११.७[०६ ] ॥

7.        अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः  । स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम्  ॥ ११.८॥

8.        शक्तः परजने दाता स्वजने दुःखजीविनि  । मध्वापातो विषास्वादः स धर्मप्रतिरूपकः  ॥ ११.९ ॥

9.        तथाऐव सप्तमे भक्ते भक्तानि षडनश्नता  । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः  ॥ ११.१६॥

10.   खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते  । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति  ॥ ११.१७ ॥

11.   यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः  । अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते  ॥ ११.२० ॥

12.   न तस्मिन् धारयेद्दण्डं धार्मिकः पृथिवीपतिः  । क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा  ॥ ११.२१ ॥

13.   तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः  । श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ ११.२२ ॥

14.   याज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति  । स याति भासतां विप्रः काकतां वा शतं समाः  ॥ ११.२५ ॥

Times of Adversity
15.   आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः  । स नाप्नोति फलं तस्य परत्रेति विचारितम्  ॥ ११.२८ ॥

16.   अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः  । चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् ॥ ११.४१ ॥

Great Sins
17.   सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम्  । ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः  ॥ ११.४९ ॥

18.   पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम्  । धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः  ॥ ११.५०॥

19.   0

20.   चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये  । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः  ॥ ११.५४॥

Grievous Sins
21.   ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः  । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह  ॥ ११.५५ ॥

22.   अनृतं च समुत्कर्षे राजगामि च पैशुनम्  । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया  ॥ ११.५६ ॥

23.   ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः  । गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ ११.५७ ॥

24.   निक्षेपस्यापहरणं नराश्वरजतस्य च  । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम्  ॥ ११.५८ ॥

25.   रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च  । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः  ॥ ११.५९ ॥

Secondary Sins
26.   गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः  । गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च  ॥ ११.६० ॥

27.   परिवित्तितानुजेऽनूढे परिवेदनमेव च  । तयोर्दानं च कन्यायास्तयोरेव च याजनम्  ॥ ११.६१ ॥

28.   कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम्  । तडागारामदाराणामपत्यस्य च विक्रयः  ॥ ११.६२॥

29.   व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च  । भृत्या चाध्ययनादानमपण्यानां च विक्रयः  ॥ ११.६३॥

30.   सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम्  । हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च  ॥ ११.६४ ॥

31.   इन्धनार्थमशुष्काणां द्रुमाणामवपातनम्  । आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा  ॥ ११.६५ ॥

32.   अनाहिताग्निता स्तेयमृणानामनपक्रिया  । असच्छाष्ट्राधिगमनं कौशीलव्यस्य च क्रिया  ॥ ११.६६ ॥

33.   धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम्  । स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम्  ॥ ११.६७ ॥

34.   ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः  । जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम्  ॥ ११.६८ ॥

35.   निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम्  । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम्  ॥ ११.७० ॥

36.   कृमिकीटवयोहत्या मद्यानुगतभोजनम्  । फलैधःकुसुमस्तेयमधैर्यं च मलावहम्  ॥ ११.७१ ॥

Penances for Grievous Sins
37.   ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम्  ॥ ११.७३ ॥

38.   लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः  । प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः  ॥ ११.७४ ॥

39.   हविष्यभुग्वानुसरेत्प्रतिस्रोतः सरस्वतीम्  । जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम्  ॥ ११.७८ ॥

40.   कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा  । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः  ॥ ११.७९ ॥

41.   शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे  । स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते  ॥ ११.८३ ॥

42.   उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा  । अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम्  ॥ ११.८९ ॥

43.   सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः  ॥ ११.९१ ॥

44.   गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा  । पयो घृतं वा मरणाद्गोशकृद्रसमेव वा  ॥ ११.९२ ॥

45.   कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि  । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी  ॥ ११.९३ ॥

46.   सुरा वै मलमन्नानां पाप्मा च मलमुच्यते  । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ ११.९४ ॥

47.   गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा  । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः  ॥ ११.९५ ॥

48.   अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् । अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः  ॥ ११.९७ ॥

49.   सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु  । स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति  ॥ ११.१०० ॥

50.   गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम्  । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु  ॥ ११.१०१ ॥

51.   तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम्  । चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम्  ॥ ११.१०२ ॥

52.   गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये  । सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुध्यति  ॥ ११.१०४ ॥

53.   स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ  । नैरृतीं दिशमातिष्ठेदा निपातादजिह्मगः  ॥ ११.१०५ ॥

54.   खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने  । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः  ॥ ११.१०६॥

55.   चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः  । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये  ॥ ११.१०७ ॥



Penances for Secondary Sins
56.   एतैर्व्रतैरपोहेयुर्महापातकिनो मलम्  । उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः  ॥ ११.१०८॥

57.   उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् । कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः  ॥ ११.१०९ ॥

58.   चतुर्थकालमश्नीयादक्षारलवणं मितम्  । गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः  ॥ ११.११० ॥

59.   दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ ११.१११ ॥

60.   तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथासीनो नियतो वीतमत्सरः  ॥ ११.११२ ॥

61.   आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः  । पतितां पङ्कलग्नं वा सर्वोपायैर्विमोचयेत् ॥ ११.११३ ॥

62.   उष्णे वर्षति शीते वा मारुते वाति वा भृशम्  । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः  ॥ ११.११४ ॥

63.   आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले  । भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम्  ॥ ११.११५ ॥

64.   अनेन विधिना यस्तु गोघ्नो गामनुगच्छति  । स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति  ॥ ११.११६ ॥



PENACE FOR THE THEFT
65.   धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः  । स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति  ॥ ११.१६३ ॥

66.   मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च  । कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम्  ॥ ११.१६४ ॥

67.   द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः  । चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये  ॥ ११.१६५ ॥

68.   भक्ष्यभोज्यापहरणे यानशय्यासनस्य च  । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम्  ॥ ११.१६६ ॥

69.   तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च  । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम्  ॥ ११.१६७ ॥

70.   मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च  । अयःकांस्योपलानां च द्वादशाहं कणान्नता  ॥ ११.१६८ ॥

71.   कार्पासकीटजोर्णानां द्विशफैकशफस्य च  । पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः  ॥ ११.१६९ ॥

मैथुन पापो का प्रायश्चित
72.   एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः  । अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ ११.१७० ॥

73.   गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु  । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च  ॥ ११.१७१ ॥

74.   पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च  । मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ ११.१७२ ॥

75.   एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान्  । ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः  ॥ ११.१७३॥

76.   अमानुषीषू पुरुष उदक्यायामयोनिषु  । रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ ११.१७४ ॥

77.   मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः  । गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ ११.१७५ ॥

78.   विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि  । यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्  ॥ ११.१७७॥

79.   सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता  । कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्  ॥ ११.१७८ ॥

पतितो के संसर्ग का प्रायश्चित
80.   एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः  । पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः  ॥ ११.१८० ॥

81.   संवत्सरेण पतति पतितेन सहाचरन्  । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ ११.१८१ ॥

82.   यो येन पतितेनैषां संसर्गं याति मानवः  । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये  ॥ ११.१८२ ॥

83.   पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः  । निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ  ॥ ११.१८३ ॥

84.   दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा  । अहोरात्रमुपासीरन्नशौचं बान्धवैः सह  ॥ ११.१८४ ॥

85.   निवर्तेरंश्च तस्मात्तु संभाषणसहासने  । दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी  ॥ ११.१८५ ॥

86.   ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनम्  । ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः  ॥ ११.१६ ॥

87.   प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम्  । तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये  ॥ ११.१८७ ॥

88.   स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम्  । सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ ११.१८८ ॥

89.   एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि  । वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके  ॥ ११.१८९ ॥

90.   एनस्विभिरनिर्णिक्तैर्नार्थं किं चित्सहाचरेत् । कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् ॥ ११.१९० ॥

91.   बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः  । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ११.१९१ ॥

92.   येषां द्विजानां सावित्री नानूच्येत यथाविधि  । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ॥ ११.१९२ ॥

93.   प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः  । ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ ११.१९३ ॥

94.   यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्  । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च  ॥ ११.१९४ ॥

95.   वेदोदितानां नित्यानां कर्मणां समतिक्रमे  । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्  ॥ ११.२०४ ॥

व्रतो के प्रकार
96.   त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्  । त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन् द्विजः  ॥ ११.२१२ ॥

97.   गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्  । एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्  ॥ ११.२१३ ॥

98.   एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः  ॥ ११.२१४ ॥

99.   तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान्  । प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः  ॥ ११.२१५ ॥

100.  यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्  । पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः  ॥ ११.२१६ ॥

101.  एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चाण्द्रायणं स्मृतम्  ॥ ११.२१७ ॥

102.  एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे  । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम्  ॥ ११.२१८ ॥

103.  अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थिते  । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन्  ॥ ११.२१९ ॥

104.  चतुरः प्रातरश्नीयात्पिण्डान् विप्रः समाहितः  । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम्  ॥ ११.२२० ॥

105.  यथा कथं चित्पिण्डानां तिस्रोऽशीतीः समाहितः  । मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम्  ॥ ११.२२१ ॥

106.  महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्  । अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ ११.२२३ ॥

107.  त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् । स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् ॥ ११.२२४ ॥

108.     स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा  । ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः  ॥ ११.२२५ ॥

109.     ख्यापनेनानुतापेन तपसाध्ययनेन च  । पापकृन्मुच्यते पापात्तथा दानेन चापदि  ॥ ११.२२८ ॥

110.     यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते  । तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते  ॥ ११.२२९ ॥

111.     यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति  । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते  ॥ ११.२३० ॥

112.     कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते  । नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः  ॥ ११.२३१ ॥

113.     एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम्  । मनोवाङ्गूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ ११.२३२ ॥

114.     अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम्  । तस्माद्विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३३ ॥

115.     यस्मिन् कर्मण्यस्य कृते मनसः स्यादलाघवम्  । तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥ ११.२३४ ॥

116.     ऋषयः संयतात्मानः फलमूलानिलाशनाः  । तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम्  ॥ ११.२३७ ॥

117.     औषधान्यगदो विद्या दैवी च विविधा स्थितिः  । तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम्  ॥ ११.२३८ ॥

118.         यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम्  । सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम्  ॥ ११.२३९ ॥

119.         वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा  । नाशयन्त्याशु पापानि महापातकजान्यपि  ॥ ११.२४६ ॥

No comments:

Post a Comment