Wednesday, September 19, 2018

CHAPTER 3

अध्ययन की अवधि
1. षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम्  । तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा  ॥ ३.१ ॥
2. वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्  । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२ ॥
3. तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः  । स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा  ॥ ३.३ ॥
4. गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि  । उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्  ॥ ३.४ ॥

योग्य कन्या
5. असपिण्डा च या मातुरसगोत्रा च या पितुः  । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने  ॥ ३.५ ॥
6. महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः  । स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ३.६ ॥
7. हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्  । क्षयामयाव्यपस्मारि- श्वित्रिकुष्ठिकुलानि च  ॥ ३.७ ॥
8. नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम्  । नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम्  ॥ ३.८ ॥
9. न र्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम्  । न पक्ष्यहिप्रेष्यनाम्नीं न च भीषननामिकाम्  ॥ ३.९ ॥
10. अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्  । तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम्  ॥ ३.१० ॥
11. यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता  । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया  ॥ ३.११ ॥
12. सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि  । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः  ॥ ३.१२ ॥

विवाह
13. चतुर्णामपि वर्णानं प्रेत्य चेह हिताहितान्  । अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत  ॥ ३.२० ॥
14. ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः  । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः  ॥ ३.२१ ॥
15. यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ  । तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्  ॥ ३.२२ ॥
16. पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह  । पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन  ॥ ३.२५ ॥
17. आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम्  । आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः  ॥ ३.२७ ॥
18. यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते  । अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते  ॥ ३.२८ ॥
19. एकं गोमिथुनं द्वे वा वरादादाय धर्मतः  । कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते  ॥ ३.२९ ॥
20. सहोभौ चरतां धर्ममिति वाचानुभाष्य च  । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः  ॥ ३.३० ॥
21. ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः  । कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते  ॥ ३.३१ ॥
22. इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च  । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः  ॥ ३.३२ ॥
23. हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते  ॥ ३.३३ ॥
24. सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति  । स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः  ॥ ३.३४ ॥
25. अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते  । इतरेषां तु वर्णानामितरेतरकाम्यया  ॥ ३.३५ ॥
26. यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः  । सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम  ॥ ३.३६ ॥
27. दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम्  । ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन्  ॥ ३.३७ ॥
28. दैवोढाजः सुतश्चैव सप्त सप्त परावरान्  । आर्षोढाजः सुतस्त्रींस्त्रीन् षट्षट्कायोढजः सुतः  ॥ ३.३८ ॥
29. ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः  । ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः  ॥ ३.३९ ॥
30. रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः  । पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः  ॥ ३.४० ॥
31. इतरेषु तु शिष्टेषु नृशंसानृतवादिनः  । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः  ॥ ३.४१ ॥
32. अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा  । निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत् ॥ ३.४२ ॥
33. पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते  । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि  ॥ ३.४३ ॥
34. शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया  । वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने  ॥ ३.४४ ॥
35. स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः  । नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्  ॥ ३.५२ ॥
36. आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् । अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः  ॥ ३.५३ ॥
37. यासां नाददते शुल्कं ज्ञातयो न स विक्रयः  । अर्हणं तत्कुमारीणामानृशंस्यं च केवलम्  ॥ ३.५४ ॥
38. न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि  । गृह्णञ्शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी  ॥ ३.५१ ॥
39. दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते  । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः  ॥ ३.१७१॥
40. परिवित्तिः परिवेत्ता यया च परिविद्यते  । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः  ॥ ३.१७२ ॥
41. भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः  । धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः  ॥ ३.१७३ ॥
42. परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ  । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः  ॥ ३.१७४॥

दंपत्ति जीवन
43. ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा  । पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया  ॥ ३.४५ ॥
44. ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः  । चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः  ॥ ३.४६ ॥
45. तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या  । त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः  ॥ ३.४७ ॥
46. युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु  । तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम्  ॥ ३.४८ ॥
47. पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः  । समेऽपुमान् पुं स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः  ॥ ३.४९ ॥
48. निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन्  । ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन्  ॥ ३.५० ॥
49. पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा  । पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः  ॥ ३.५५ ॥
50. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः  । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः  ॥ ३.५६ ॥
51. शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम्  । न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा  ॥ ३.५७ ॥
52. जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः  । तानि कृत्याहतानीव विनश्यन्ति समन्ततः  ॥ ३.५८ ॥
53. तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः  । भूतिकामैर्नरैर्नित्यं सत्करेषूत्सवेषु च  ॥ ३.५९ ॥
54. संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च  । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्  ॥ ३.६० ॥
55. यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते  ॥ ३.६१ ॥
56. स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलं  । तस्यां त्वरोचमानायां सर्वमेव न रोचते  ॥ ३.६२ ॥
57. यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः  । तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः  ॥ ३.७७ ॥
58. यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्  । गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही  ॥ ३.७८ ॥
59. स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता  । सुखं चेहेच्छतात्यन्तं योऽधार्यो दुर्बलेन्द्रियैः  ॥ ३.७९॥
60. ऋषयः पितरो देवा भूतान्यतिथयस्तथा  । आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता  ॥ ३.८० ॥


पञ्च महायज्ञ का अनुष्ठान
61. वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि  । पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही  ॥ ३.६७ ॥
62. पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः  । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्  ॥ ३.६८॥
63. अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्  । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्  ॥ ३.७० ॥
64. पञ्चैतान् यो महाअयज्ञान्न हापयति शक्तितः  । स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते  ॥ ३.७१ ॥
65. देवतातिथिभृत्यानां पितॄणामात्मनश्च यः  । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति  ॥ ३.७२॥
66. अहुतं च हुतं चैव तथा प्रहुतमेव च  । ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते  ॥ ३.७३ ॥
67. जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः  । ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम्  ॥ ३.७४॥
68. स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि  । दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम्  ॥ ३.७५ ॥
69. अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते  । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः  ॥ ३.७६ ॥
70. स्वाध्यायेनार्चयेत र्षीन् होमैर्देवान् यथाविधि  । पितॄञ्श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा  ॥ ३.८१ ॥
71. कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा  । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्  ॥ ३.८२ ॥
72. वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्  । आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम्  ॥ ३.८४ ॥
73. अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः  । विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च  ॥ ३.८५ ॥
74. कुह्वै चैवानुमत्यै च प्रजापतय एव च   । सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः  ॥ ३.८६ ॥
75. एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम्  । इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ३.८७॥
76. मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि  । वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ ३.८८॥
77. उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः  । ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ३.८९॥
78. विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च  ॥ ३.९० ॥
79. पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये  । पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ३.९१॥
80. शूनां च पतितानां च श्वपचां पापरोगिणाम्  । वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि  ॥ ३.९२ ॥
81. एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति  । स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना  ॥ ३.९३॥
82. यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः  । तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही  ॥ ३.९५ ॥
83. भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम्  । वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ३.९६॥
84. नश्यन्ति हव्यकव्यानि नराणामविजानताम्  । भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः  ॥ ३.९७ ॥
85. विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु  । निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ॥ ३.९८॥
86. संप्राप्ताय त्वतिथये प्रदद्यादासनोदके  । अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम्  ॥ ३.९९ ॥
87. शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः  । सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन्  ॥ ३.१००॥
88. तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता  । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन  ॥ ३.१०१ ॥
89. एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः  । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते  ॥ ३.१०२ ॥
90. नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा  । उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा  ॥ ३.१०३ ॥
91. उपासते ये गृहस्थाः परपाकमबुद्धयः  । तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः  ॥ ३.१०४॥
92. अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना  । काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥ ३.१०५ ॥
93. न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यमायुष्यं स्वर्ग्यं वातिथिपूजनम्  ॥ ३.१०६॥
94. आसनावसथौ शय्यामनुव्रज्यामुपासनाम्  । उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम्  ॥ ३.१०७ ||
95. वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ ३.१०८ ॥
96. न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः  ॥ ३.१०९ ॥
97. इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान्  । प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया  ॥ ३.११३ ॥
98. सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः  । अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन्  ॥ ३.११४ ॥
99. अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः  । स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः  ॥ ३.११५॥
100. भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि  । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती  ॥ ३.११६॥
101. अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते  ॥ ३.११८ ॥
102. राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान्  । अर्हयेन्मधुपर्केण परिसंवत्सरात्पुनः  ॥ ३.११९॥
103. राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ  । मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः  ॥ ३.१२०॥

पंक्ति पवन ब्राह्मण
104. अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च  । श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः  ॥ ३.१८४॥
105. त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् । ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च  ॥ ३.१८५ ॥
106. वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः  । शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः  ॥ ३.१८६॥

No comments:

Post a Comment