Monday, September 10, 2018



CHAPTER 7



भूमिका
1.      राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः  । संभवश्च यथा तस्य सिद्धिश्च परमा यथा  ॥ ७.१ ॥

राजा का चुना जाना
2.      ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि  । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्  ॥ ७.२ ॥

3.      अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः  ॥ ७.३ ॥

4.      इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च  । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः  ॥ ७.४ ॥

5.      यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः  । तस्मादभिभवत्येष सर्वभूतानि तेजसा  ॥ ७.५ ॥

6.      तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च  । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्  ॥ ७.६ ॥

7.      सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः  ॥ ७.७ ॥

8.      एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्  । कुलं दहति राजाग्निः सपशुद्रव्यसंचयम्  ॥ ७.९ ॥

9.      कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः  । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः  ॥ ७.१० ॥

10.यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे  । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः  ॥ ७.११ ॥

11.तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम्  । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः  ॥ ७.१२ ॥

12.तस्माद्धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः  । अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३ ॥

13.तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्  । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः  ॥ ७.१४ ॥

14.तस्य सर्वाणि भूतानि स्थावराणि चराणि च  । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च  ॥ ७.१५ ॥

15.तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः  । यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु  ॥ ७.१६ ॥

16.स राजा पुरुषो दण्डः स नेता शासिता च सः  । चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः  ॥ ७.१७ ॥

17.दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति  । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः  ॥ ७.१८ ॥

18.समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः  । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः  ॥ ७.१९ ॥

19.यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः  । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः  ॥ ७.२० ॥

20.अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा  । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्  ॥ ७.२१ ॥

21.सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः  । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते  ॥ ७.२२ ॥

22.देवदानवगन्धर्वा रक्षांसि पतगोरगाः  । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः  ॥ ७.२३ ॥

23.दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः  । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ ७.२४ ॥

24.यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा  । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति  ॥ ७.२५ ॥

25.तस्याहुः संप्रणेतारं राजानं सत्यवादिनम्  । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्  ॥ ७.२६ ॥

26.तं राजा प्रणयन् सम्यक्त्रिवर्गेणाभिवर्धते  । कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते  ॥ ७.२७ ॥

27.दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः  । धर्माद्विचलितं हन्ति नृपमेव सबान्धवम्  ॥ ७.२८ ॥

28.ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम्  । अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ॥ ७.२९ ॥

29.सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना  । न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च  ॥ ७.३० ॥

30.शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा  । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता  ॥ ७.३१ ॥

31.स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु  । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः  ॥ ७.३२ ॥

32.एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः  । विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि  ॥ ७.३३ ॥

33.अतस्तु विपरीतस्य नृपतेरजितात्मनः  । संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि  ॥ ७.३४ ॥

34.स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः  । वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता  ॥ ७.३५ ॥



धर्म आदि
35.तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः  । तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः  ॥ ७.३६ ॥

36.ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः  । त्रैविद्यवृद्धान् विदुषस्तिष्ठेत्तेषां च शासने  ॥ ७.३७ ॥

37.वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन्  । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते  ॥ ७.३८ ॥

38.तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः  । विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ॥ ७.३९ ॥

39.बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः  । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे  ॥ ७.४० ॥

40.त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम्  । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः  ॥ ७.४३ ॥

41.इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम्  । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः  ॥ ७.४४ ॥

42.दश कामसमुत्थानि तथाष्टौ क्रोधजानि च  । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥

43.कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः  । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु  ॥ ७.४६ ॥

44.मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः  । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः  ॥ ७.४७ ॥

45.पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्  । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः  ॥ ७.४८ ॥

46.द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः  । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ  ॥ ७.४९ ॥

47.पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम्  । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे  ॥ ७.५० ॥

48.दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे  । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा  ॥ ७.५१ ॥

49.सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः  । पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान्  ॥ ७.५२ ॥

50.व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते  । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः  ॥ ७.५३ ॥





मंत्रियो की नियुक्ति
51.मौलाञ्शास्त्रविदः शूरांल्लब्धलक्षान् कुलोद्भवान्  । सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान्  ॥ ७.५४ ॥

52.अपि यत्सुकरं कर्म तदप्येकेन दुष्करम्  । विशेषतोऽसहायेन किं तु राज्यं महोदयम्  ॥ ७.५५ ॥

53.तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम्  । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च  ॥ ७.५६ ॥

54.तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक्पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः  ॥ ७.५७ ॥

55.सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता  । मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम्  ॥ ७.५८ ॥

56.नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९ ॥

अधिकारियों की नियुक्ति
57.अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान्  । सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान्  ॥ ७.६० ॥

58.निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः  । तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान्  ॥ ७.६१ ॥

59.तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान्  । शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने  ॥ ७.६२ ॥

दूतो की नियुक्ति
60.दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम्  । इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम्  ॥ ७.६३ ॥

61.अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते  ॥ ७.६४ ॥

62.अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया  । नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ  ॥ ७.६५ ॥

63.दूत एव हि संधत्ते भिनत्त्येव च संहतान्  । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः  ॥ ७.६६ ॥

64.स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः  । आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम्  ॥ ७.६७ ॥

65.बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम्  । तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ ७.६८ ॥

शाही किला
66.जाङ्गलं सस्यसंपन्नमार्यप्रायमनाविलम्  । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ ७.६९ ॥

67.धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा  । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम्  ॥ ७.७० ॥

68.सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते  ॥ ७.७१ ॥

69.त्रिण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः  । त्रीण्युत्तराणि क्रमशः प्लवंगमनरामराः  ॥ ७.७२ ॥

70.यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः  । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम्  ॥ ७.७३ ॥

71.एकः शतं योधयति प्राकारस्थो धनुर्धरः  । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते  ॥ ७.७४ ॥

72.तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः  । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च  ॥ ७.७५ ॥

73.तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः  । गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम्  ॥ ७.७६ ॥





विविध
74.तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम्  । कुले महति संभूतां हृद्यां रूपगुणान्वीताम्  ॥ ७.७७ ॥

75.पुरोहितं च कुर्वीत वृणुयादेव च र्त्विजः  । तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च  ॥ ७.७८ ॥

76.आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते  ॥ ७.८२ ॥

77.न तं स्तेना न चामित्रा हरन्ति न च नश्यति  । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः  ॥ ७.८३ ॥

78.सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे  । प्राधीते शतसाहस्रमनन्तं वेदपारगे  ॥ ७.८५ ॥

79.पात्रस्य हि विशेषेण श्रद्दधानतयैव च  । अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते  ॥ ७.८६ ॥

80.तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः  । तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः  ॥ ७.१४०॥

81.अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम्  । स्थापयेदासने तस्मिन् खिन्नः कार्येक्षणे नृणाम्  ॥ ७.१४१ ॥

82.एवं सर्वं विधायेदमितिकर्तव्यमात्मनः  । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः  ॥ ७.१४२॥

83.विक्रोशन्त्यो यस्य राष्ट्राध्रियन्ते दस्युभिः प्रजाः  । संपश्यतः सभृत्यस्य मृतः स न तु जीवति  ॥ ७.१४३॥

84.क्षत्रियस्य परो धर्मः प्राजानामेव पालनम्  । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते  ॥ ७.१४४॥

शासन योजना
85.अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः  । रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९ ॥

86.एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम्  । अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः  ॥ ७.१००॥

87.अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया  । रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१॥

88.नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः  । नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः  ॥ ७.१०२॥

89.नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३॥

90.अमाययैव वर्तेत न कथं चन मायया  । बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः  ॥ ७.१०४॥

91.नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च  । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः  ॥ ७.१०५॥

92.बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमे  । वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ ७.१०६ ॥

93.एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः  । तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः  ॥ ७.१०७॥

94.यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः  । दण्डेनैव प्रसह्यैताञ्शनकैर्वशमानयेत् ॥ ७.१०८॥

95.सामादीनामुपायानां चतुर्णामपि पण्डिताः  । सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये  ॥ ७.१०९॥

96.यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति  । तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः  ॥ ७.११० ॥

97.मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया  । सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः  ॥ ७.१११ ॥

98.शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा  । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२ ॥

99.राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् । सुसंगृहीतराष्ट्रे हि पार्थिवः सुखमेधते  ॥ ७.११३ ॥

युद्ध
100.                        समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः  । न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन्  ॥ ७.८७॥

101.                        संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम्  । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम्  ॥ ७.८८ ॥

102.                        आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः  । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः  ॥ ७.८९॥

103.                        रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः  । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ ७.९६ ॥

104.                        राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः  । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम्  ॥ ७.९७ ॥

105.                        एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः  । अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून्  ॥ ७.९८॥

राज्य प्रबंध
106.                        द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम्  । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम्  ॥ ७.११४ ॥

107.                        ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा  । विंशतीशं शतेशं च सहस्रपतिमेव च  ॥ ७.११५ ॥

108.                        ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम्  । शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने  ॥ ७.११६॥

109.                        विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम्  ॥ ७.११७ ॥

110.                        यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः  । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ ७.११८ ॥

111.                        दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च  । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम्  ॥ ७.११९ ॥

112.                        तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि  । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः  ॥ ७.१२० ॥

113.                        नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम्  । उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम्  ॥ ७.१२१ ॥

114.                        स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम्  । तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः  ॥ ७.१२२ ॥

115.                        राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः  । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः  ॥ ७.१२३ ॥

116.                        ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः  । तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम्  ॥ ७.१२४ ॥

117.                        राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च   । प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः  ॥ ७.१२५ ॥

118.                        पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम्  । षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः  ॥ ७.१२६॥

कर आदि
119.                        सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम्  । स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु  ॥ ७.८० ॥

120.                        अध्यक्षान् विविधान् कुर्यात्तत्र तत्र विपश्चितः  । तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम्  ॥ ७.८१ ॥

121.                        क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम्  । योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान्  ॥ ७.१२७॥

122.                        यथा फलेन युज्येत राजा कर्ता च कर्मणाम्  । तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान्  ॥ ७.१२८॥

123.                        यथाल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः  । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः  ॥ ७.१२९॥

124.                        पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः  । धान्यानामष्टमो भागः षष्ठो द्वादश एव वा  ॥ ७.१३०॥

125.                        आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम्  । गन्धौषधिरसानां च पुष्पमूलफलस्य च  ॥ ७.१३१॥

126.                        पत्रशाकतृणानां च चर्मणां वैदलस्य च  । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च  ॥ ७.१३२॥

127.                        संरक्ष्यमाणो राज्ञा यं] कुरुते धर्ममन्वहम्  । तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च  ॥ ७.१३६॥

128.                        यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम्  । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम्  ॥ ७.१३७॥

129.                        कारुकाञ्शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः  । एकैकं कारयेत्कर्म मासि मासि महीपतिः  ॥ ७.१३८॥

130.                        नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया  । उच्छिन्दन् ह्यात्मनो मूलमाट्मानं तांश्च पीदयेत् ॥ ७.१३९ ॥

सुबह की दिन चर्या
131.                        उत्थाय पश्चिमे यामे कृतशौचः समाहितः  । हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम्  ॥ ७.१४५ ॥

132.                        तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः  ॥ ७.१४६ ॥

133.                        गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः  । अरण्ये निःशलाके वा मन्त्रयेदविभावितः  ॥ ७.१४७ ॥

134.                        यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः  । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः  ॥ ७.१४८ ॥

135.                        जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान्  । स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥ ७.१४९ ॥

136.                        भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च  । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ ७.१५० ॥

137.                        मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः  । चिन्तयेद्धर्मकामार्थान् सार्धं तैरेक एव वा  ॥ ७.१५१ ॥

138.                        परस्परविरुद्धानां तेषां च समुपार्जनम्  । कन्यानां संप्रदानं च कुमाराणां च रक्षणं  ॥ ७.१५२ ॥

139.                        दूतसंप्रेषणं चैव कार्यशेषं तथैव च  । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम्  ॥ ७.१५३ ॥

140.                        कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः  । अनुरागापरागौ च प्रचारं मण्डलस्य च  ॥ ७.१५४ ॥

141.                        मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम्  । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः  ॥ ७.१५५ ॥

142.                        एताः प्रकृतयो मूलं मण्डलस्य समासतः  । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः  ॥ ७.१५६ ॥

143.                        अमात्यराष्ट्रदुर्गार्थ- दण्डाख्याः पञ्च चापराः  । प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः  ॥ ७.१५७ ॥

144.                        अनन्तरमरिं विद्यादरिसेविनमेव च  । अरेरनन्तरं मित्रमुदासीनं तयोः परम्  ॥ ७.१५८ ॥

145.                        तान् सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः  । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च  ॥ ७.१५९ ॥

146.                        संधिं च विग्रहं चैव यानमासनमेव च  । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा  ॥ ७.१६० ॥

147.                        आसनं चैव यानं च संधिं विग्रहमेव च  । कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च  ॥ ७.१६१ ॥

148.                        संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च  । उभे यानासने चैव द्विविधः संश्रयः स्मृतः  ॥ ७.१६२ ॥

149.                        समानयानकर्मा च विपरीतस्तथैव च  । तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः  ॥ ७.१६३ ॥

150.                        स्वयंकृतश्च कार्यार्थमकाले काल एव वा  । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः  ॥ ७.१६४ ॥

151.                        एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया  । संहतस्य च मित्रेण द्विविधं यानमुच्यते  ॥ ७.१६५ ॥

152.                        क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा  । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम्  ॥ ७.१६६ ॥

153.                        बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये  । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः  ॥ ७.१६७ ॥

154.                        अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः  । साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः  ॥ ७.१६८ ॥

155.                        यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः  । तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ ७.१६९ ॥

156.                        यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम्  । अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम्  ॥ ७.१७० ॥

157.                        यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम्  । परस्य विपरीतं च तदा यायाद्रिपुं प्रति  ॥ ७.१७१ ॥

158.                        यदा तु स्यात्परिक्षीणो वाहनेन बलेन च  । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्  ॥ ७.१७२॥

159.                        मन्येतारिं यदा राजा सर्वथा बलवत्तरम्  । तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः  ॥ ७.१७३ ॥

160.                        यदा परबलानां तु गमनीयतमो भवेत् । तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम्  ॥ ७.१७४ ॥

161.                        निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च  । उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा  ॥ ७.१७५ ॥

162.                        यदि तत्रापि संपश्येद्दोषं संश्रयकारितम्  । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६ ॥

163.                        सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः  । यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः  ॥ ७.१७७ ॥

164.                        आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः  ॥ ७.१७८ ॥

165.                        आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः  । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते  ॥ ७.१७९ ॥

166.                        यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः  । तथा सर्वं संविदध्यादेष सामासिको नयः  ॥ ७.१८० ॥

167.                        तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः  । तदानेन विधानेन यायादरिपुरं शनैः  ॥ ७.१८१ ॥

168.                        मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः  । फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम्  ॥ ७.१८२ ॥

169.                        अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम्  । तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः  ॥ ७.१८३ ॥

170.                        कृत्वा विधानं मूले तु यात्रिकं च यथाविधि  । उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च  ॥ ७.१८४ ॥

171.                        संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम्  । सांपरायिककल्पेन यायादरिपुरं प्रति  ॥ ७.१८५ ॥

172.                        शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः  ॥ ७.१८६ ॥

173.                        दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा  । वराहमकराभ्यां वा सूच्या वा गरुडेन वा  ॥ ७.१८७ ॥

174.                        यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम्  । पद्मेन चैव व्यूहेन निविशेत सदा स्वयम्  ॥ ७.१८८॥

175.                        सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत्प्राचीं तां कल्पयेद्दिशम्  ॥ ७.१८९ ॥

176.                        गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः  । स्थाने युद्धे च कुशलानभीरूनविकारिणः  ॥ ७.१९० ॥

177.                        संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून्  । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१ ॥

178.                        स्यन्दनाश्वैः समे युध्येदनूपे नौ द्विपैस्तथा  । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले  ॥ ७.१९२ ॥

179.                        कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाञ्शूरसेनजान्  । दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥ ७.१९३ ॥

180.                        प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन् योधयतामपि  ॥ ७.१९४ ॥

181.                        उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्  ॥ ७.१९५ ॥

182.                        भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा  । समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा  ॥ ७.१९६ ॥

183.                        उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम्  । युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः  ॥ ७.१९७ ॥

184.                        साम्ना दानेन भेदेन समस्तैरथ वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदा चन  ॥ ७.१९८ ॥

185.                        अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः  । पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥ ७.१९९ ॥

186.                        त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे  । तथा युध्येत संपन्नो विजयेत रिपून् यथा  ॥ ७.२०० ॥

187.                        जित्वा संपूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान्  । प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च  ॥ ७.२०१ ॥

188.                        सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम्  । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम्  ॥ ७.२०२॥

189.                        प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान्  । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह  ॥ ७.२०३ ॥

190.                        आदानमप्रियकरं दानं च प्रियकारकम्  । अभीप्सितानामर्थानां काले युक्तं प्रशस्यते  ॥ ७.२०४ ॥

191.                        सर्वं कर्मेदमायत्तं विधाने दैवमानुषे  । तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया  ॥ ७.२०५ ॥

192.                        सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः  । मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम्  ॥ ७.२०६॥

193.                        पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले  । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ ७.२०७ ॥

194.                        हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते  । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्  ॥ ७.२०८॥

195.                        धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च  । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते  ॥ ७.२०९ ॥

196.                        प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च  । कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः  ॥ ७.२१० ॥

197.                        आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता  । स्थौललक्ष्यं च सततमुदासीनगुणोदयः  ॥ ७.२११ ॥

198.                        क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि  । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन्  ॥ ७.२१२ ॥

199.                        आपदर्थं धनं रक्षेद्दारान् रक्षेद्धनैरपि  । आत्मानं सततं रक्षेद्दारैरपि धनैरपि  ॥ ७.२१३ ॥

200.                        सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम्  । संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद्बुधः  ॥ ७.२१४ ॥

201.                        उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः  । एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये  ॥ ७.२१५ ॥

दोपहर की दिन चर्या
202.                        एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः  । व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ ७.२१६ ॥

203.                        तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः  । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः  ॥ ७.२१७ ॥

204.                        विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा  ॥ ७.२१८ ॥

205.                        परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः  । वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः  ॥ ७.२१९ ॥

206.                        एवं प्रयत्नं कुर्वीत यानशय्यासनाशने  । स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च  ॥ ७.२२० ॥

207.                        भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह  । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥

208.                        अलंकृतश्च संपश्येदायुधीयं पुनर्जनम्  । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च  ॥ ७.२२२॥

शाम की दिनचर्या
209.                        संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम्  ॥ ७.२२३ ॥

210.                        गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम्  । प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः  ॥ ७.२२४ ॥

211.                        तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः  । संविशेत्तं यथाकालमुत्तिष्ठेच्च गतक्लमः  ॥ ७.२५५ ॥

212.                        एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः  । अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ ७.२२६ ॥

No comments:

Post a Comment