Wednesday, September 19, 2018

CHAPTER 8

A1.  Titles of law and the constitution and order of a court
1. व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥८.१॥
2. तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम्  । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम्  ॥ ८.२ ॥
3. प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः  । अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ॥ ८.३ ॥
4. तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः  । संभूय च समुत्थानं दत्तस्यानपकर्म च  ॥ ८.४ ॥
5. वेतनस्यैव चादानं संविदश्च व्यतिक्रमः  । क्रयविक्रयानुशयो विवादः स्वामिपालयोः  ॥ ८.५ ॥
6. सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके  । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च  ॥ ८.६ ॥
7. स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च  । पदान्यष्टादशैतानि व्यवहारस्थिताविह  ॥ ८.७ ॥
8. एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम्  । धर्मं शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम्  ॥ ८.८ ॥
9. यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम्  । तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने  ॥ ८.९ ॥
10. सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः  । सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा  ॥ ८.१० ॥
11. यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः  । राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः  ॥ ८.११ ॥
12. धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते  । शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः  ॥ ८.१२ ॥
13. सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम्  । अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी  ॥ ८.१३ ॥
14. यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च  । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः  ॥ ८.१४ ॥
15. धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः  । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ ८.१५ ॥
16. वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम्  । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ ८.१६ ॥
17. एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः  । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति  ॥ ८.१७ ॥
18. पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति  । पादः सभासदः सर्वान् पादो राजानमृच्छति  ॥ ८.१८ ॥
19. राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः  । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते  ॥ ८.१९ ॥
20. जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः  । धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथं चन  ॥ ८.२० ॥
21. यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम्  । तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः  ॥ ८.२१ ॥
22. यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम्  । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम्  ॥ ८.२२ ॥
23. धर्मासनमधिष्ठाय संवीताङ्गः समाहितः  । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ ८.२३ ॥
24. अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ  । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम्  ॥ ८.२४ ॥
25. बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम्  । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च  ॥ ८.२५ ॥
26. आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च  । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः  ॥ ८.२६ ॥
A2. Wards; property, unclaimed, hidden or stolen
27. बालदायादिकं रिक्थं तावद्राजानुपालयेत् । यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः  ॥ ८.२७ ॥
28. वशापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च  । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च  ॥ ८.२८ ॥
29. जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः  । ताञ्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः  ॥ ८.२९ ॥
30. प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ८.३० ॥
31. ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि  । संवाद्य रूपसंख्यादीन् स्वामी तद्द्रव्यमर्हति  ॥ ८.३१ ॥
32. अवेदयानो नष्टस्य देशं कालं च तत्त्वतः  । वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति  ॥ ८.३२ ॥
33. आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः  । दशमं द्वादशं वापि सतां धर्ममनुस्मरन्  ॥ ८.३३ ॥
34. प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम्  । यांस्तत्र चौरान् गृह्णीयात्तान् राजेभेन घातयेत् ॥ ८.३४ ॥
35. ममायमिति यो ब्रूयान्निधिं सत्येन मानवः  । तस्याददीत षड्भागं राजा द्वादशमेव वा  ॥ ८.३५ ॥
36. अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम्  । तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम्  ॥ ८.३६ ॥
37. विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम्  । अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः  ॥ ८.३८ ॥
38. यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ  । तस्माद्द्विजेभ्यो दत्त्वार्धमर्धं कोशे प्रवेशयेत् ॥ ८.३८ ॥
39. निधीनां तु पुराणानां धातूनामेव च क्षितौ  । अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः  ॥ ८.३९ ॥
40. दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम्  । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम्  ॥ ८.४० ॥
41. जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् । समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥
42. स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः  ॥ ८.४२ ॥
43. नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः । न च प्रापितमन्येन ग्रसेदर्थं कथं चन  ॥ ८.४३ ॥
44. यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम्  । नयेत्तथानुमानेन धर्मस्य नृपतिः पदम्  ॥ ८.४४ ॥
45. सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः  । देशं रूपं च कालं च व्यवहारविधौ स्थितः  ॥ ८.४५ ॥
46. सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः  । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥
1 Debts and Recovery
47. अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेनचोदितः। दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम्  ॥ ८.४७ ॥
48. यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः  । तैर्तैरुपायैः संगृह्य दापयेदधमर्णिकम्  ॥ ८.४८ ॥
49. धर्मेण व्यवहारेण छलेनाचरितेन च  । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च  ॥ ८.४९ ॥
50. यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् । न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम्  ॥ ८.५० ॥
51. अर्थेऽपव्ययमानं तु करणेन विभावितम्  । दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः  ॥ ८.५१ ॥
52. अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि  । अभियोक्ता दिशेद्देश्यं करणं वान्यदुद्दिशेत् ॥ ८.५२ ॥
53. अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः  । यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते  ॥ ८.५३ ॥
54. अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति  । सम्यक्प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति  ॥ ८.५४ ॥
55. असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः  । निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ८.५५ ॥
56. ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते  ॥ ८.५६ ॥
57. साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः  । धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥ ८.५७ ॥
58. अभियोक्ता न चेद्ब्रूयाद्बध्यो दण्ड्यश्च धर्मतः  । न चेत्त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः  ॥ ८.५८ ॥
59. यो यावन्निह्नुवीतार्थं मिथ्या यावति वा वदेत् । तौ नृपेण ह्यधर्मज्ञौ दाप्यो तद्द्विगुणं दमम्  ॥ ८.५९ ॥
A3. Evidence and perjury
60. पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा  । त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ  ॥ ८.६० ॥
61. यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः  । तादृशान् संप्रवक्ष्यामि यथा वाच्यमृतं च तैः  ॥ ८.६१ ॥
62. गृहिणः पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः  । अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि  ॥ ८.६२ ॥
63. आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः  । सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ ८.६३ ॥
64. नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः  । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः  ॥ ८.६४ ॥
65. न साक्षी नृपतिः कार्यो न कारुककुशीलवौ  । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः  ॥ ८.६५ ॥
66. नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः  ॥ ८.६६ ॥
67. नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः  । न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः  ॥ ८.६७ ॥
68. स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः  । शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः  ॥ ८.६८ ॥
69. अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम्  । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये  ॥ ८.६९ ॥
70. स्त्रियाप्यसंभावे कार्यं बालेन स्थविरेण वा  । शिष्येण बन्धुना वापि दासेन भृतकेन वा  ॥ ८.७० ॥
71. बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा  । जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा  ॥ ८.७१ ॥
72. साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च  । वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः  ॥ ८.७२ ॥
73. बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः  । समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान्  ॥ ८.७३ ॥
74. समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति  । तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते  ॥ ८.७४ ॥
75. साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि  । अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते  ॥ ८.७५ ॥
76. यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किं चन  । पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम्  ॥ ८.७६ ॥
77. एकोऽलुब्धस्तु साक्षी स्याद्बह्व्यः शुच्योऽपि न स्त्रियः  । स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः  ॥ ८.७७ ॥
78. स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्  । अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम्  ॥ ८.७८ ॥
79. सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ  । प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्वयन्  ॥ ८.७९ ॥
80. यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः  । तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता  ॥ ८.८० ॥
81. सत्यं साक्ष्ये ब्रुवन् साक्षी लोकानाप्नोति पुष्कलान्  । इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता  ॥ ८.८१ ॥
82. साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम्  । विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम्  ॥ ८.८२ ॥
83. सत्येन पूयते साक्षी धर्मः सत्येन वर्धते  । तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः  ॥ ८.८३ ॥
84. आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः  । मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम्  ॥ ८.८४ ॥
85. मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः  । तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः  ॥ ८.८५ ॥
86. द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः  । रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम्  ॥ ८.८६ ॥
87. देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान्  । उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन्  ॥ ८.८७ ॥
88. ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम्  । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः  ॥ ८.८८ ॥
89. ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः  । मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा  ॥ ८.८९ ॥
90. जन्मप्रभृति यत्किं चित्पुण्यं भद्र त्वया कृतम्  । तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा  ॥ ८.९० ॥
91. एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे  । नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः  ॥ ८.९१ ॥
92. यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः  । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः  ॥ ८.९२ ॥
93. नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः  । अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ ८.९३ ॥
94. अवाक्शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये  ॥ ८.९४ ॥
95. अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह  । यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः  ॥ ८.९५ ॥
96. यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते  । तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः  ॥ ८.९६ ॥
97. यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन्  । तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः  ॥ ८.९७ ॥
98. पञ्च पश्वनृते हन्ति दश हन्ति गवानृते  । शतमश्वानृते हन्ति सहस्रं पुरुषानृते  ॥ ८.९८ ॥
99. हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्  । सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः  ॥ ८.९९ ॥
100. अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने  । अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च  ॥ ८.१०० ॥
101. एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे  । यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद  ॥ ८.१०१ ॥
102. गोरक्षकान् वाणिजिकांस्तथा कारुकुशीलवान्  । प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ ८.१०२ ॥
103. तद्वदन् धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः  । न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम्  ॥ ८.१०३ ॥
104. शूद्रविट्क्षत्रविप्राणां यत्र र्तोक्तौ भवेद्वधः  । तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते  ॥ ८.१०४ ॥
105. वाग्गैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम्  । अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम्  ॥ ८.१०५ ॥
106. कूष्माण्डैर्वापि जुहुयाद्घृतमग्नौ यथाविधि  । उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा  ॥ ८.१०६ ॥
107. त्रिपक्षादब्रुवन् साक्ष्यमृणादिषु नरोऽगदः  । तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः  ॥ ८.१०७ ॥
108. यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः  । रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः  ॥ ८.१०८ ॥
109. असाक्षिकेषु त्वर्थेषु मिथो विवादमानयोः  । अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९ ॥
110. महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः  । वसिष्ठश्चापि शपथं शेपे पैजवने नृपे  ॥ ८.११० ॥
111. न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः  । वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति  ॥ ८.१११ ॥
112. कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने  । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्  ॥ ८.११२ ॥
113. सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः  । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः  ॥ ८.११३ ॥
114. अग्निं वाहारयेदेनमप्सु चैनं निमज्जयेत् । पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ ८.११४ ॥
115. यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च  । न चार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः  ॥ ८.११५ ॥
116. वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा  । नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः  ॥ ८.११६ ॥
117. यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ८.११७ ॥
118. लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च  । अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते  ॥ ८.११८ ॥
119. एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः  ॥ ८.११९ ॥
120. लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम्  । भयाद्द्वौ मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम्  ॥ ८.१२० ॥
121. कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम्  । अज्ञानाद्द्वे शते पूर्णे बालिश्याच्छतमेव तु  ॥ ८.१२१ ॥
122. एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान्मनीषिभिः  । धर्मस्याव्यभिचारार्थमधर्मनियमाय च  ॥ ८.१२२ ॥
123. कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः  । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ ८.१२३ ॥
A4. Punishments and calculation of fines
124. दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२४ ॥
125. उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्  । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च  ॥ ८.१२५ ॥
126. अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः  । सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥
127. अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम्  । अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ ८.१२७ ॥
128. अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।अयशो महदाप्नोति नरकं चैव गच्छति  ॥ ८.१२८ ॥
129. वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् ।तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ ८.१२९ ॥
130. वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम्  ॥ ८.१३० ॥
A5. On Law of measurement
131. लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः  ॥ ८.१३१ ॥
132. जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते  ॥ ८.१३२ ॥
133. त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः  ॥ ८.१३३ ॥
134. सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम्। पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश  ॥ ८.१३४ ॥
135. पलं सुवर्णाश्चत्वारः पलानि धरणं दश  । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः  ॥ ८.१३५ ॥
136. ते षोडश स्याद्धरणं पुराणश्चैव राजतः  । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः  ॥ ८.१३६ ॥
137. धरणानि दश ज्ञेयः शतमानस्तु राजतः  । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः  ॥ ८.१३७ ॥
138. पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः  । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः  ॥ ८.१३८ ॥
A6. Loans, interest and pledges
139. ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति  । अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्  ॥ ८.१३९ ॥
140. वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम्  । अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते  ॥ ८.१४० ॥
141. द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन्  । द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी  ॥ ८.१४१ ॥
142. द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम्  । मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः  ॥ ८.१४२ ॥
A7. Pledge
143. न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् । न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः  ॥ ८.१४३ ॥
144. न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् । मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ ८.१४४ ॥
145. आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः  । अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ  ॥ ८.१४५ ॥
146. संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन  । धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते  ॥ ८.१४६ ॥
147. यत्किं चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी  । भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति  ॥ ८.१४७ ॥
148. अजडश्चेदपोगण्डो विषये चास्य भुज्यते  । भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति  ॥ ८.१४८ ॥
149. आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः  । राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति  ॥ ८.१४९ ॥
150. यः स्वामिनाननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः  । तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः  ॥ ८.१५० ॥
151. कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता  । धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम्  ॥ ८.१५१ ॥
152. कृतानुसारादधिका व्यतिरिक्ता न सिध्यति  । कुसीदपथमाहुस्तं पञ्चकं शतमर्हति  ॥ ८.१५२ ॥
153. नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् । चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या  ॥ ८.१५३ ॥
154. ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम्  । स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४ ॥
155. अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति  ॥ ८.१५५ ॥
156. चक्रवृद्धिं समारूढो देशकालव्यवस्थितः  । अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ॥ ८.१५६ ॥
157. समुद्रयानकुशला देशकालार्थदर्शिनः  । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति  ॥ ८.१५७ ॥
158. यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः  । अदर्शयन् स तं तस्य प्रयच्छेत्स्वधनादृणम्  ॥ ८.१५८ ॥
159. प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् । दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति  ॥ ८.१५९ ॥
160. दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः  । दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ ८.१६० ॥
161. अदातरि पुनर्दाता विज्ञातप्रकृतावृणम्  । पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना  ॥ ८.१६१ ॥
162. निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः  । स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः  ॥ ८.१६२ ॥
163. मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा  । असंबद्धकृतश्चैव व्यावहारो न सिध्यति  ॥ ८.१६३ ॥
164. सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता  । बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात् ॥ ८.१६४ ॥
165. योगाधमनविक्रीतं योगदानप्रतिग्रहम्  । यत्र वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥
166. ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः  । दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः  ॥ ८.१६६ ॥
167. कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ ८.१६७ ॥
168. बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम्  । सर्वान् बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ ८.१६८ ॥
169. त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः  ॥ ८.१६९ ॥
170. अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः  । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ ८.१७० ॥
171. अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति  ॥ ८.१७१ ॥
172. स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् । बलं संजायते राज्ञः स प्रेत्येह च वर्धते  ॥ ८.१७२ ॥
173. तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये  । वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः  ॥ ८.१७३ ॥
174. यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः  । अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः  ॥ ८.१७४ ॥
175. कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति  । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः  ॥ ८.१७५ ॥
176. यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे  । स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम्  ॥ ८.१७६ ॥
177. कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः  । समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः  ॥ ८.१७७ ॥
178. अनेन विधिना राजा मिथो विवदतां नृणाम्  । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ ८.१७८ ॥
2. On bailment
179. कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि  । महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः  ॥ ८.१७९ ॥
180. यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः  । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः  ॥ ८.१८० ॥
181. यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति  । स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ  ॥ ८.१८१ ॥
182. साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः  । अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः  ॥ ८.१८२ ॥
183. स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम्  । न तत्र विद्यते किं चिद्यत्परैरभियुज्यते  ॥ ८.१८३ ॥
184. तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि  । उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा  ॥ ८.१८४ ॥
185. निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे  । नश्यतो विनिपाते तावनिपाते त्वनाशिनौ  ॥ ८.१८५ ॥
186. स्वयमेव तु यौ दद्यान्मृतस्य प्रत्यनन्तरे  । न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः  ॥ ८.१८६ ॥
187. अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम्  । विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७ ॥
188. निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने  । समुद्रे नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत् ॥ ८.१८८ ॥
189. चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा  । न दद्याद्यदि तस्मात्स न संहरति किं चन  ॥ ८.१८९ ॥
190. निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च  । सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः  ॥ ८.१९० ॥
191. यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते  । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम्  ॥ ८.१९१ ॥
192. निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम्  । तथोपनिधिहर्तारमविशेषेण पार्थिवः  ॥ ८.१९२ ॥
193. उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः  । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः  ॥ ८.१९३ ॥
194. निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ  । तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति  ॥ ८.१९४ ॥
195. मिथो दायः कृतो येन गृहीतो मिथ एव वा  । मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः  ॥ ८.१९५ ॥
196. निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च  । राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम्  ॥ ८.१९६ ॥
3. On sale without ownership
197. विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः  । न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्  ॥ ८.१९७ ॥
198. अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम्  । निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम्  ॥ ८.१९८ ॥
199. अस्वामिना कृतो यस्तु दायो विक्रय एव वा  । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः  ॥ ८.१९९ ॥
200. संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् । आगमः कारणं तत्र न संभोग इति स्थितिः  ॥ ८.२०० ॥
201. विक्रयाद्यो धनं किं चिद्गृह्णीयत्कुलसंनिधौ  । क्रयेण स विशुद्धं हि न्यायतो लभते धनम्  ॥ ८.२०१ ॥
202. अथ मूलमनाहार्यं प्रकाशक्रयशोधितः  । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम्  ॥ ८.२०२ ॥
203. नान्यदन्येन संसृष्ट- रूपं विक्रयमर्हति  । न चासारं न च न्यूनं न दूरेण तिरोहितम्  ॥ ८.२०३ ॥
204. अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते  । उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः  ॥ ८.२०४ ॥
205. नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना  । पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति  ॥ ८.२०५ ॥
4. On partnership
206. ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देयोऽशः सहकर्तृभिः  ॥ ८.२०६ ॥
207. दक्षिणासु च दत्तासु स्वकर्म परिहापयन्  । कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥ ८.२०७ ॥
208. यस्मिन् कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः  । स एव ता आदिदीत भजेरन् सर्व एव वा  ॥ ८.२०८ ॥
209. रथं हरेत्चाध्वर्युर्ब्रह्माधाने च वाजिनम्  । होता वापि हरेदश्वमुद्गाता चाप्यनः क्रये  ॥ ८.२०९ ॥
210. सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे  । तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः  ॥ ८.२१० ॥
211. संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः  । अनेन विधियोगेन कर्तव्यांशप्रकल्पना  ॥ ८.२११ ॥
212. धर्मार्थं येन दत्तं स्यात्कस्मै चिद्याचते धनम्  । पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ ८.२१२ ॥
213. यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः  । राज्ञा दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः  ॥ ८.२१३ ॥
214. दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया  । अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम्  ॥ ८.२१४ ॥
5. On nonpayment of wages
215. भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम्  । स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम्  ॥ ८.२१५ ॥
216. आर्तस्तु कुर्यात्स्वस्थः सन् यथाभाषितमादितः  । स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम्  ॥ ८.२१६ ॥
217. यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः  ॥ ८.२१७ ॥
218. एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः  । अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम्  ॥ ८.२१८ ॥
6. On law of breach of contract
219. यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम्  । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ ८.२१९ ॥
220. निगृह्य दापयेच्चैनं समयव्यभिचारिणम्  । चतुःसुवर्णान् षण्निष्कांश्छतमानं च राजकम्  ॥ ८.२२० ॥
221. एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः  । ग्रामजातिसमूहेषु समयव्यभिचारिणाम्  ॥ ८.२२१ ॥
7. On law of return of articles
222. क्रीत्वा विक्रीय वा किं चिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा  ॥ ८.२२२ ॥
223. परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददत्चैव राज्ञा दण्ड्यौ शतानि षट् ॥ ८.२२३ ॥
224. यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति  । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान्  ॥ ८.२२४ ॥
225. अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः  । स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन्  ॥ ८.२२५ ॥
226. पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः  । नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः  ॥ ८.२२६ ॥
227. पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्  । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे  ॥ ८.२२७ ॥
228. यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् । तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ ८.२२८ ॥
229. पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे  । विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः  ॥ ८.२२९ ॥
8. Owners of cattle and of herdsmen

230. दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे  । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥ ८.२३० ॥
231. गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम्  । गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः  ॥ ८.२३१ ॥
232. नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम्  । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु  ॥ ८.२३२ ॥
233. विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति  । यदि देशे च काले च स्वामिनः स्वस्य शंसति  ॥ ८.२३३ ॥
234. कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम्  । पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ॥ ८.२३४ ॥
235. अजाविके तु संरुद्धे वृकैः पाले त्वनायति  । यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥ ८.२३५ ॥
236. तासां चेदवरुद्धानां चरन्तीनां मिथो वने  । यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी  ॥ ८.२३६ ॥
237. धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः  । शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु  ॥ ८.२३७ ॥
238. तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि  । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम्  ॥ ८.२३८ ॥
239. वृतिं तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत् । छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम्  ॥ ८.२३९ ॥
240. पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः  । सपालः शतदण्डार्हो विपालान् वारयेत्पशून्  ॥ ८.२४० ॥
241. क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति  । सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा  ॥ ८.२४१ ॥
242. अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा  । सपालान् वा विपालान् वा न दण्ड्यान्मनुरब्रवीत् ॥ ८.२४२ ॥
243. क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत् । ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु  ॥ ८.२४३ ॥
244. एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः  । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे  ॥ ८.२४४ ॥

9. Dispute of boundaries

245. सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः  । ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु  ॥ ८.२४५ ॥
246. सींवृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान्  । शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान्  ॥ ८.२४६ ॥
247. गुल्मान् वेणूंश्च विविधान् शमीवल्लीस्थलानि च  । शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति  ॥ ८.२४७ ॥
248. ………………………………………………….
249. उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम्  ॥ ८.२४९ ॥
250. अश्मनोऽस्थीनि गोवालांस्तुषान् भस्म कपालिकाः  । करीषमिष्टकाङ्गारांश्शर्करा वालुकास्तथा  ॥ ८.२५० ॥
251. यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ ८.२५१ ॥
252. एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः  । पूर्वभुक्त्या च सततमुदकस्यागमेन च  ॥ ८.२५२ ॥
253. यदि स्ंशय एव स्याल्लिङ्गानामपि दर्शने  । साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः  ॥ ८.२५३ ॥
254. ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः  । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः  ॥ ८.२५४ ॥
255. ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम्  । निबध्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः  ॥ ८.२५५ ॥
256. शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः  । सुकृतैः शापिथाः स्वैः स्वैर्नयेयुस्ते समञ्जसम्  ॥ ८.२५६ ॥
257. यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः  । विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम्  ॥ ८.२५७ ॥
258. साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः  । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ  ॥ ८.२५८ ॥
259. सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम्  । इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान्  ॥ ८.२५९ ॥
260. व्याधाञ्शाकुनिकान् गोपान् कैवर्तान्मूलखानकान्  । व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः  ॥ ८.२६० ॥
261. ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम्  । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः  ॥ ८.२६१ ॥
262. क्षेत्रकूपतडागानामारामस्य गृहस्य च  । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः  ॥ ८.२६२ ॥
263. सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवादतां नृणाम्  । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम्  ॥ ८.२६३ ॥
264. गृहं तडागमारामं क्षेत्रं वा भीषया हरन्  । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः  ॥ ८.२६४ ॥
265. सीमायामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिमेकेषामुपकारादिति स्थितिः  ॥ ८.२६५ ॥
266. एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये  । अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम्  ॥ ८.२६६ ॥
10 Defamation
267. शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति  । वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति  ॥ ८.२६७ ॥
268. पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने  । वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः  ॥ ८.२६८ ॥
269. समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे  । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ ८.२६९ ॥
270. एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन्  । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः  ॥ ८.२७० ॥
271. नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः  । निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः  ॥ ८.२७१ ॥
272. धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः  । तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः  ॥ ८.२७२ ॥
273. श्रुतं देशं च जातिं च कर्म शरीरमेव च  । वितथेन ब्रुवन् दर्पाद्दाप्यः स्याद्द्विशतं दमम्  ॥ ८.२७३ ॥
274. काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम्  । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम्  ॥ ८.२७४ ॥
275. मातरं पितरं जायां भ्रातरं तनयं गुरुम्  । आक्षारयञ्शतं दाप्यः पन्थानं चाददद्गुरोः  ॥ ८.२७५ ॥
276. ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता  । ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः  ॥ ८.२७६ ॥
277. विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः  । छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः  ॥ ८.२७७ ॥
278. एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः  । अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम्  ॥ ८.२७८ ॥
11. Assault
279. येन केन चिदङ्गेन हिंस्याच्चेच्छ्रेष्ठमन्त्यजः  । छेत्तव्यं तद्तदेवास्य तन्मनोरनुशासनम्  ॥ ८.२७९ ॥
280. पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति  । पादेन प्रहरन् कोपात्पादच्छेदनमर्हति  ॥ ८.२८० ॥
281. सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः  । कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ॥ ८.२८१ ॥
282. अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः  । अवमूत्रयतो मेढ्रमवशर्धयतो गुदम्  ॥ ८.२८२ ॥
283. केशेषु गृह्णतो हस्तौ छेदयेदविचारयन्  । पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च  ॥ ८.२८३ ॥
284. त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः  । मांसभेत्ता तु षण्निष्कान् प्रवास्यस्त्वस्थिभेदकः  ॥ ८.२८४ ॥
285. वनस्पतीनां सर्वेषामुपभोगो यथा यथा  । यथा तथा दमः कार्यो हिंसायामिति धारणा  ॥ ८.२८५ ॥
286. मनुष्याणां पशूनां च दुःखाय प्रहृते सति  । यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा  ॥ ८.२८६ ॥
287. अङ्गावपीडनायां च व्रणशोनितयोस्तथा  । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा  ॥ ८.२८७ ॥
288. द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा  । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम्  ॥ ८.२८८ ॥
289. चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु  । मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च  ॥ ८.२८९ ॥
290. यानस्य चैव यातुश्च यानस्वामिन एव च  । दशातिवर्तनान्याहुः शेषे दण्डो विधीयते  ॥ ८.२९० ॥
291. छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते  । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च  ॥ ८.२९१ ॥
292. छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च  । आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ ८.२९२ ॥
293. यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु  । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम्  ॥ ८.२९३ ॥
294. प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति  । युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम्  ॥ ८.२९४ ॥
295. स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा  । प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः  ॥ ८.२९५ ॥
296. मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् । प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु  ॥ ८.२९६ ॥
297. क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः  । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु  ॥ ८.२९७ ॥
298. गर्धभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः  । माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने  ॥ ८.२९८ ॥
299. भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः  । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा  ॥ ८.२९९ ॥
300. पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन  । अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम्  ॥ ८.३०० ॥
301. एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः  । स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये  ॥ ८.३०१ ॥

12. Theft
302. परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः  । स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते  ॥ ८.३०२ ॥
303. अभयस्य हि यो दाता स पूज्यः सततं नृपः  । सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम्  ॥ ८.३०३ ॥
304. सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः  । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः  ॥ ८.३०४ ॥
305. यदधीते यद्यजते यद्ददाति यदर्चति  । तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ ८.३०५ ॥
306. रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन्  । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः  ॥ ८.३०६ ॥
307. योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः  । प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०७ ॥
308. अरक्षितारं राजानं बलिषड्भागहारिणम्  । तमाहुः सर्वलोकस्य समग्रमलहारकम्  ॥ ८.३०८ ॥
309. अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम्  । अरक्षितारमत्तारं नृपं विद्यादधोगतिम्  ॥ ८.३०९ ॥
310. अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः  । निरोधनेन बन्धेन विविधेन वधेन च  ॥ ८.३१० ॥
311. निग्रहेण हि पापानां साधूनां संग्रहेण च  । द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः  ॥ ८.३११ ॥
312. क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम्  । बालवृद्धातुराणां च कुर्वता हितमात्मनः  ॥ ८.३१२ ॥
313. यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते  । यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति  ॥ ८.३१३ ॥
314. राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता  । आचक्षाणेन तत्स्तेयमेवंकर्मास्मि शाधि माम्  ॥ ८.३१४ ॥
315. स्कन्धेनादाय मुसलं लगुडं वापि खादिरम्  । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा  ॥ ८.३१५ ॥
316. शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते  । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम्  ॥ ८.३१६ ॥
317. अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी  । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्  ॥ ८.३१७ ॥
318. राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः  । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा  ॥ ८.३१८ ॥
319. यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम्  । स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥ ८.३१९ ॥
320. धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः  । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम्  ॥ ८.३२० ॥
321. तथा धरिममेयानां शतादभ्यधिके वधः  । सुवर्णरजतादीनामुत्तमानां च वाससाम्  ॥ ८.३२१ ॥
322. पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते  । शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ ८.३२२ ॥
323. पुरुषाणां कुलीनानां नारीणां च विशेषतः  । मुख्यानां चैव रत्नानां हरणे वधमर्हति  ॥ ८.३२३ ॥
324. महापशूनां हरणे शस्त्राणामौषधस्य च  । कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२४ ॥
325. गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने  । पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः  ॥ ८.३२५ ॥
326. सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च  । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च  ॥ ८.३२६ ॥
327. वेणुवैदलभाण्डानां लवणानां तथैव च  । मृण्मयानां च हरणे मृदो भस्मन एव च  ॥ ८.३२७ ॥
328. मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च  । मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम्  ॥ ८.३२८ ॥
329. अन्येषां चैवमादीनां मद्यानामोदनस्य च  । पक्वान्नानां च सर्वेषां तन्मुल्याद्द्विगुणो दमः  ॥ ८.३२९ ॥
330. पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च  । अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः  ॥ ८.३३० ॥
331. परिपूतेषु धान्येषु शाकमूलफलेषु च  । निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः  ॥ ८.३३१ ॥
13. Robbery

332. स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम्  । निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत् ॥ ८.३३२ ॥
333. यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः  । तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् ॥ ८.३३३ ॥
334. येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते  । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः  ॥ ८.३३४ ॥
335. पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः  । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति  ॥ ८.३३५ ॥
336. कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः  । तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा  ॥ ८.३३६ ॥
337. अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम्  । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च  ॥ ८.३३७ ॥
338. ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः  ॥ ८.३३८ ॥
339. वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च  । तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ ८.३३९ ॥
340. योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम्  । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः  ॥ ८.३४० ॥
341. द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके  । आददानः परक्षेत्रान्न दण्डं दातुमर्हति  ॥ ८.३४१ ॥
342. असंदितानां संदाता संदितानां च मोक्षकः  । दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम्  ॥ ८.३४२ ॥
343. अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।यशोऽस्मिन् प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम्  ॥ ८.३४३ ॥
14. Commits violence/ Robbery
344. ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम्  । नोपेक्षेत क्षणमपि राजा साहसिकं नरम्  ॥ ८.३४४ ॥
345. वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः  । साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः  ॥ ८.३४५ ॥
346. साहसे वर्तमानं तु यो मर्षयति पार्थिवः  । स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति  ॥ ८.३४६ ॥
347. न मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत्साहसिकान् सर्वभूतभयावहान्  ॥ ८.३४७ ॥
348. शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते  । द्विजातीनां च वर्णानां विप्लवे कालकारिते  ॥ ८.३४८ ॥
349. आत्मनश्च परित्राणे दक्षिणानां च संगरे  । स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति  ॥ ८.३४९ ॥
350. गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्  । आततायिनमायान्तं हन्यादेवाविचारयन्  ॥ ८.३५० ॥
351. नाततायिवधे दोषो हन्तुर्भवति कश्चन  । प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति  ॥ ८.३५१ ॥
15. Adultery
352. परदाराभिमर्शेषु प्रवृत्तान्नॄन्महीपतिः  । उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ॥ ८.३५२ ॥
353. तत्समुत्थो हि लोकस्य जायते वर्णसंकरः  । येन मूलहरोऽधर्मः सर्वनाशाय कल्पते  ॥ ८.३५३ ॥
354. परस्य पत्न्या पुरुषः संभाषां योजयन् रहः  । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम्  ॥ ८.३५४ ॥
355. यस्त्वनाक्षारितः पूर्वमभिभाषते कारणात् । न दोषं प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः  ॥ ८.३५५ ॥
356. परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा  । नदीनां वापि संभेदे स संग्रहणमाप्नुयात् ॥ ८.३५६ ॥
357. उपचारक्रिया केलिः स्पर्शो भूषणवाससाम्  । सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम्  ॥ ८.३५७ ॥
358. स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया  । परस्परस्यानुमते सर्वं संग्रहणं स्मृतम्  ॥ ८.३५८ ॥
359. अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति  । चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा  ॥ ८.३५९ ॥
360. भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा  । संभाषनं सह स्त्रीभिः कुर्युरप्रतिवारिताः  ॥ ८.३६० ॥
361. न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति  ॥ ८.३६१ ॥
362. नैष चारणदारेषु विधिर्नात्मोपजीविषु  । सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च  ॥ ८.३६२ ॥
363. किं चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन्  । प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च  ॥ ८.३६३ ॥
364. योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति  । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः  ॥ ८.३६४ ॥
365. कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् । जघन्यं सेवमानां तु संयतां वासयेद्गृहे  ॥ ८.३६५ ॥
366. उत्तमां सेवमानस्तु जघन्यो वधमर्हति  । शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि  ॥ ८.३६६ ॥
367. अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः  । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम्  ॥ ८.३६७ ॥
368. सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये  ॥ ८.३६८ ॥
369. कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः  । शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश  ॥ ८.३६९ ॥
370. या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति  । अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा  ॥ ८.३७० ॥
371. भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता  । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते  ॥ ८.३७१ ॥
372. पुमांसं दाहयेत्पापं शयने तप्त आयसे  । अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ ८.३७२ ॥
373. संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः  । व्रात्यया सह संवासे चाण्डाल्या तावदेव तु  ॥ ८.३७३ ॥
374. शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन्  । अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते  ॥ ८.३७४ ॥
375. वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः  । सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति  ॥ ८.३७५ ॥
376. ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ  । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम्  ॥ ८.३७६ ॥
377. उभावपि तु तावेव ब्राह्मण्या गुप्तया सह  । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना  ॥ ८.३७७ ॥
378. सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन्  । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः  ॥ ८.३७८ ॥
379. मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते  । इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ ८.३७९ ॥
380. न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्  । राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम्  ॥ ८.३८० ॥
381. न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि  । तस्मादस्य वधं राजा मनसापि न चिन्तयेत् ॥ ८.३८१ ॥
382. वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः  ॥ ८.३८२ ॥
383. सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्  । शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः  ॥ ८.३८३ ॥
384. क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः  । मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा  ॥ ८.३८४ ॥
385. अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन्  । शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम्  ॥ ८.३८५ ॥
A8. Disputed observances, tolls, prices and servitude
386. यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ८.३८६ ॥
387. एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके  । सांराज्यकृत्सजात्येषु लोके चैव यशस्करः  ॥ ८.३८७ ॥
388. ऋत्विजं यस्त्यजेद्याज्यो याज्यं च र्त्विक्त्यजेद्यदि  । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम्  ॥ ८.३८८ ॥
389. न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति  । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९ ॥
390. आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः  । न विब्रूयान्नृपो धर्मं चिकीर्षन् हितमात्मनः  ॥ ८.३९० ॥
391. यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः  । सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ८.३९१ ॥
392. प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे  । अर्हावभोजयन् विप्रो दण्डमर्हति माषकम्  ॥ ८.३९२ ॥
393. श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन्  । तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम्  ॥ ८.३९३ ॥
394. अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः  । श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित्करम्  ॥ ८.३९४ ॥
395. श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिंचनम्  । महाकुलीनमार्यं च राजा संपूजयेत्सदा  ॥ ८.३९५ ॥
396. शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः  । न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥ ८.३९६ ॥
397. तन्तुवायो दशपलं दद्यादेकपलाधिकम्  । अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम्  ॥ ८.३९७ ॥
398. शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः  । कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९८ ॥
399. राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च  । ताणि निर्हरतो लोभात्सर्वहारं हरेन्नृपः  ॥ ८.३९९ ॥
400. शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी  । मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम्  ॥ ८.४०० ॥
401. आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ  । विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ  ॥ ८.४०१ ॥
402. पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते  । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः  ॥ ८.४०२ ॥
403. तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम्  । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ ८.४०३ ॥
404. पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे  । पादं पशुश्च योषिच्च पादार्धं रिक्तकः पुमान्  ॥ ८.४०४ ॥
405. भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः  । रिक्तभाण्डानि यत्किं चित्पुमांसश्चापरिच्छदाः  ॥ ८.४०५ ॥
406. दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम्  ॥ ८.४०६ ॥
407. गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः  । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे  ॥ ८.४०७ ॥
408. यन्नावि किं चिद्दाशानां विशीर्येतापराधतः  । तद्दाशैरेव दातव्यं समागम्य स्वतोऽशतः  ॥ ८.४०८ ॥
409. एष नौयायिनामुक्तो व्यवहारस्य निर्णयः  । दाशापराधतस्तोये दैविके नास्ति निग्रहः  ॥ ८.४०९ ॥
410. वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिमेव च  । पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम्  ॥ ८.४१० ॥
411. क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ  । बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् ॥ ८.४११ ॥
412. दास्यं तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान् द्विजान्  । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२ ॥
413. शूद्रं तु कारयेद्दास्यं क्रीतमक्रीतमेव वा  । दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा  ॥ ८.४१३ ॥
414. न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते  । निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति  ॥ ८.४१४ ॥
415. ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ  । पैत्रिको दण्डदासश्च सप्तैते दासयोनयः  ॥ ८.४१५ ॥
416. भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः  । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्  ॥ ८.४१६ ॥
417. विस्रब्धं ब्राह्मणः शूद्राद्द्रव्योपादानमाचरेत् । न हि तस्यास्ति किं चित्स्वं भर्तृहार्यधनो हि सः  ॥ ८.४१७ ॥
418. वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ ८.४१८ ॥
419. अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च  । आयव्ययौ च नियतावाकरान् कोशमेव च  ॥ ८.४१९ ॥
420. एवं सर्वानिमान् राजा व्यवहारान् समापयन्  । व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम्  ॥ ८.४२० ॥

No comments:

Post a Comment